Sukta 6.46
यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् । सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥
यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू॑महे व॒यम् । सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥
yáḥ satrāhā́ vícarṣaṇir índraṃ táṃ hūmahe vayám | sáhasramuṣka tuvínṛmṇa sátpate bhávā samátsu no vṛ́dhe ||
He who is the all-conquering, the wide-ruling—Indra, him we call. O thousand-strong, O of mighty manhood, O lord of the true, become in our clashes our increase and growth.
यः । स॒त्रा॒ऽहा । विऽच॑र्षणिः । इन्द्र॑म् । तम् । हू॒म॒हे॒ । व॒यम् । सह॑स्रऽमुष्क । तुवि॑ऽनृम्ण । सत्ऽप॑ते । भव॑ । स॒मत्ऽसु॑ । नः॒ । वृ॒धे ॥यः । सत्राहा । विचर्षणिः । इन्द्रम् । तम् । हूमहे । वयम् । सहस्रमुष्क । तुविनृम्ण । सत्पते । भव । समत्सु । नः । वृधे ॥yaḥ | satrāhā | vi-carṣaṇiḥ | indram | tam | hūmahe | vayam | sahasra-muṣka | tuvi-nṛmṇa | sat-pate | bhava | samat-su | naḥ | vṛdhe