Sukta 6.46
स त्वं नश्चित्र वज्रहस्त धृष्णुया महः स्तवानो अद्रिवः । गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः । गामश्वं॑ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥
sá tvaṃ naś citra vajra-hasta dhṛṣṇuyā́ máhaḥ stavāno adrivaḥ | gā́m áśvaṃ rathyàm indra sáṃ kira satrā́ vā́jaṃ ná jigyúṣe ||
Thou then, O wondrous wielder of the thunderbolt, praised with daring greatness, O holder of the pressing-stone—scatter for us the rays and the steed-forces and the chariot-power; pour out continually the plenitude of force for one who would conquer.
सः । त्वम् । नः॒ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । धृ॒ष्णु॒ऽया । म॒हः । स्त॒वा॒नः । अ॒द्रि॒ऽवः॒ । गाम् । अश्व॑म् । र॒थ्य॑म् । इ॒न्द्र॒ । सम् । कि॒र॒ । स॒त्रा । वाज॑म् । न । जि॒ग्युषे॑ ॥सः । त्वम् । नः । चित्र । वज्रहस्त । धृष्णुया । महः । स्तवानः । अद्रिवः । गाम् । अश्वम् । रथ्यम् । इन्द्र । सम् । किर । सत्रा । वाजम् । न । जिग्युषे ॥saḥ | tvam | naḥ | citra | vajra-hasta | dhṛṣṇu-yā | mahaḥ | stavānaḥ | adri-vaḥ | gām | aśvam | rathyam | indra | sam | kira | satrā | vājam | na | jigyuṣe