Sukta 6.46
त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥
त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रव॑: । त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥
tvā́m id dhí havāmahe sātā́ vā́jasya kā́ravaḥ | tvā́ṃ vṛtréṣv indra sátpatiṃ náras tvā́ṃ kā́ṣṭhāsv árvataḥ ||
The singers call thee indeed, for the winning of plenitude of force. In the coverings and resistances, O Indra, men call thee the true lord; they call thee in the fixed goals of the journey and the moving advance.
त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ । त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥त्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारवः । त्वाम् । वृत्रेषु । इन्द्र । सत्पतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः ॥tvām | it | hi | havāmahe | sātā | vājasya | kāravaḥ | tvām | vṛtreṣu | indra | sat-patim | naraḥ | tvām | kāṣṭhāsu | arvataḥ