Sukta 6.46
यत्र शूरासस्तन्वो वितन्वते प्रिया शर्म पितॄणाम् । अध स्मा यच्छ तन्वे तने च छर्दिरचित्तं यावय द्वेषः ॥
यत्र॒ शूरा॑सस्त॒न्वो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् । अध॑ स्मा यच्छ त॒न्वे॒३॒॑ तने॑ च छ॒र्दिर॒चित्तं॑ या॒वय॒ द्वेष॑: ॥
yátra śū́rāsas tanvò vitanváte priyā́ śárma pitṝṇā́m | ádha smā yaccha tanvé táne ca chardír acíttaṃ yāváya dvéṣaḥ ||
Where the heroes spread out their embodied powers, in the cherished shelter of the Fathers—then grant to our person and to our lineage the protecting cover; drive away the ill-will that strikes without consciousness.
यत्र॑ । शूरा॑सः । त॒न्वः॑ । वि॒ऽत॒न्व॒ते । प्रि॒या । शर्म॑ । पि॒तॄ॒णाम् । अध॑ । स्म॒ । य॒च्छ॒ । त॒न्वे॑ । तने॑ । च॒ । छ॒र्धिः । अ॒चित्त॑म् । य॒वय॑ । द्वेषः॑ ॥यत्र । शूरासः । तन्वः । वितन्वते । प्रिया । शर्म । पितॄणाम् । अध । स्म । यच्छ । तन्वे । तने । च । छर्धिः । अचित्तम् । यवय । द्वेषः ॥yatra | śūrāsaḥ | tanvaḥ | vi-tanvate | priyā | śarma | pitṝṇām | adha | sma | yaccha | tanve | tane | ca | chardhiḥ | acittam | yavaya | dveṣaḥ