Sukta 6.45
सखायो ब्रह्मवाहसेऽर्चत प्र च गायत । स हि नः प्रमतिर्मही ॥
सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत । स हि न॒: प्रम॑तिर्म॒ही ॥
sákhāyo bráhma-vāhase'rcata prá ca gāyata | sá hí naḥ prá-matir mahī́ ||
O comrades, chant to him who bears the Word; sing forth! For he indeed is for us the great right-minded guidance.
सखा॑यः । ब्रह्म॑ऽवाहसे । अर्च॑त । प्र । च॒ । गा॒य॒त॒ । सः । हि । नः॒ । प्रऽम॑तिः । म॒ही ॥सखायः । ब्रह्मवाहसे । अर्चत । प्र । च । गायत । सः । हि । नः । प्रमतिः । मही ॥sakhāyaḥ | brahma-vāhase | arcata | pra | ca | gāyata | saḥ | hi | naḥ | pra-matiḥ | mahī