Sukta 6.45
महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः । नास्य क्षीयन्त ऊतयः ॥
म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः । नास्य॑ क्षीयन्त ऊ॒तय॑: ॥
mahī́r asya prá-nītayaḥ pū́rvīr utá prá-śastayaḥ | nā́sya kṣīyanta ūtáyaḥ ||
Mighty are his leadings, ancient too his high praiseworthiness; his succors do not diminish.
म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः । न । अ॒स्य॒ । क्षी॒य॒न्ते॒ । ऊ॒तयः॑ ॥महीः । अस्य । प्रनीतयः । पूर्वीः । उत । प्रशस्तयः । न । अस्य । क्षीयन्ते । ऊतयः ॥mahīḥ | asya | pra-nītayaḥ | pūrvīḥ | uta | pra-śastayaḥ | na | asya | kṣīyante | ūtayaḥ