Sukta 6.45
यस्य वायोरिव द्रवद्भद्रा रातिः सहस्रिणी । सद्यो दानाय मंहते ॥
यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ । स॒द्यो दा॒नाय॒ मंह॑ते ॥
yásya vā́yor iva drávad bhadrā́ rātíḥ sahasríṇī | sadyó dānā́ya maṃhate ||
Whose happy giving runs swift like the Wind, a thousand-fold in its abundance—he is at once magnified for the act of giving.
यस्य॑ । वा॒योःऽइ॑व । द्र॒वत् । भ॒द्रा । रा॒तिः । स॒ह॒स्रिणी॑ । स॒द्यः । दा॒नाय॑ । मंह॑ते ॥यस्य । वायोःइव । द्रवत् । भद्रा । रातिः । सहस्रिणी । सद्यः । दानाय । मंहते ॥yasya | vāyoḥ-iva | dravat | bhadrā | rātiḥ | sahasriṇī | sadyaḥ | dānāya | maṃhate