Sukta 6.45
तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥
तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रव॑: । बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ॥
tát su no víśve aryá ā́ sadā́ gṛṇanti kā́ravaḥ | bṛbúṃ sahasra-dā́tamam sūríṃ sahasra-sā́tamam ||
Therefore all the noble ones continually sing for us: Bṛbu, the thousand-giver, the hero-lord who wins a thousandfold.
तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ । बृ॒बुम् । स॒ह॒स्र॒ऽदात॑मम् । सू॒रिम् । स॒ह॒स्र॒ऽसात॑मम् ॥तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः । बृबुम् । सहस्रदातमम् । सूरिम् । सहस्रसातमम् ॥tat | su | naḥ | viśve | aryaḥ | ā | sadā | gṛṇanti | kāravaḥ | bṛbum | sahasra-dātamam | sūrim | sahasra-sātamam