Sukta 6.45
अविप्रे चिद्वयो दधदनाशुना चिदर्वता । इन्द्रो जेता हितं धनम् ॥
अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता । इन्द्रो॒ जेता॑ हि॒तं धन॑म् ॥
avipré cid váyo dádhad anā́śunā cid árvātā | índro jétā hitáṃ dhánam ||
Even to the unillumined he gives increase; even by the non-offerer’s steed—Indra is the winner of the destined wealth.
अ॒वि॒प्रे । चि॒त् । वयः॑ । दध॑त् । अ॒ना॒शुना॑ । चि॒त् । अर्व॑ता । इन्द्रः॑ । जेता॑ । हि॒तम् । धन॑म् ॥अविप्रे । चित् । वयः । दधत् । अनाशुना । चित् । अर्वता । इन्द्रः । जेता । हितम् । धनम् ॥avipre | cit | vayaḥ | dadhat | anāśunā | cit | arvatā | indraḥ | jetā | hitam | dhanam