Sukta 6.45
इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः । वत्सं गावो न धेनवः ॥
इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्ष॑न्ते गिर्वणो॒ गिर॑: । व॒त्सं गावो॒ न धे॒नव॑: ॥
imā́ u tvā sutesute nákṣante girvaṇo gíraḥ | vatsáṃ gā́vo ná dhenávaḥ ||
These words reach thee at each pressing of the Soma, O lord who delights in the chant; as milch-cows press close to their calf, so do the utterances hasten to thee.
इ॒माः । ऊँ॒ इति॑ । त्वा॒ । सु॒तेऽसु॑ते । नक्ष॑न्ते । गि॒र्व॒णः॒ । गिरः॑ । व॒त्सम् । गावः॑ । न । धे॒नवः॑ ॥इमाः । ऊँ इति । त्वा । सुतेसुते । नक्षन्ते । गिर्वणः । गिरः । वत्सम् । गावः । न । धेनवः ॥imāḥ | oṃ iti | tvā | sute--sute | nakṣante | girvaṇaḥ | giraḥ | vatsam | gāvaḥ | na | dhenavaḥ