Sukta 6.45
इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः । इन्द्र वत्सं न मातरः ॥
इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिर॑: । इन्द्र॑ व॒त्सं न मा॒तर॑: ॥
imā́ u tvā śatakrato’bhí prá nonuvur gíraḥ | índra vatsáṃ ná mātáraḥ ||
These utterances have pressed forward towards you, O Indra of a hundred powers, as mothers urge on the calf—so do our words draw you near.
इ॒माः । ऊँ॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒भि । प्र । नो॒नु॒वुः॒ । गिरः॑ । इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥इमाः । ऊँ इति । त्वा । शतक्रतो इति शतक्रतो । अभि । प्र । नोनुवुः । गिरः । इन्द्र । वत्सम् । न । मातरः ॥imāḥ | oṃ iti | tvā | śatakrato itiśata-krato | abhi | pra | nonuvuḥ | giraḥ | indra | vatsam | na | mātaraḥ