Sukta 6.45
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । शचीभिरप नो वरत् ॥
कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त् । शची॑भि॒रप॑ नो वरत् ॥
kuvít sasya prá hí vrájaṃ gómatam dasyú-hā́ gámat | śácībhir ápa no varat ||
May he indeed come—he the slayer of the dasyu—towards the cattlefold rich in Light; and by his powers of conscious skill may he drive away from us what obstructs.
कु॒वित्ऽस॑स्य । प्र । हि । व्र॒जम् । गोऽम॑न्तम् । द॒स्यु॒ऽहा । गम॑त् । शची॑भिः । अप॑ । नः॒ । व॒र॒त् ॥कुवित्सस्य । प्र । हि । व्रजम् । गोमन्तम् । दस्युहा । गमत् । शचीभिः । अप । नः । वरत् ॥kuvit-sasya | pra | hi | vrajam | go--mantam | dasyu-hā | gamat | śacībhiḥ | apa | naḥ | varat