Sukta 6.45
न घा वसुर्नि यमते दानं वाजस्य गोमतः । यत्सीमुप श्रवद्गिरः ॥
न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः । यत्सी॒मुप॒ श्रव॒द्गिर॑: ॥
ná ghā vásur ní yamaté dānáṃ vā́jasya gómatáḥ | yát sīm úpa śrávad gíraḥ ||
Surely the good plenitude is not withheld—the giving of victorious force rich in Light—when he listens close to the inspired utterances.
न । घ॒ । वसुः॑ । नि । य॒म॒ते॒ । दा॒नम् । वाज॑स्य । गोऽम॑तः । यत् । सी॒म् । उप॑ । श्र॒व॒त् । गिरः॑ ॥न । घ । वसुः । नि । यमते । दानम् । वाजस्य । गोमतः । यत् । सीम् । उप । श्रवत् । गिरः ॥na | gha | vasuḥ | ni | yamate | dānam | vājasya | go--mataḥ | yat | sīm | upa | śravat | giraḥ