Sukta 6.45
य आनयत्परावतः सुनीती तुर्वशं यदुम् । इन्द्रः स नो युवा सखा ॥
य आन॑यत्परा॒वत॒: सुनी॑ती तु॒र्वशं॒ यदु॑म् । इन्द्र॒: स नो॒ युवा॒ सखा॑ ॥
yá ā́nayat parāvátaḥ su-nī́tī turváśaṃ yádum | índraḥ sá no yúvā sakhā́ ||
He who led from the far distance Turvaśa and Yadu by the good guidance—Indra, may he be for us the young comrade.
यः । आ । अन॑यत् । प॒रा॒ऽवतः॑ । सुऽनी॑ती । तु॒र्वश॑म् । यदु॑म् । इन्द्रः॑ । सः । नः॒ । युवा॑ । सखा॑ ॥यः । आ । अनयत् । परावतः । सुनीती । तुर्वशम् । यदुम् । इन्द्रः । सः । नः । युवा । सखा ॥yaḥ | ā | anayat | parāvataḥ | su-nītī | turvaśam | yadum | indraḥ | saḥ | naḥ | yuvā | sakhā