Sukta 6.45
धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः । सासहीष्ठा अभि स्पृधः ॥
धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः । सा॒स॒ही॒ष्ठा अ॒भि स्पृध॑: ॥
dhíṣva vájraṃ gábhastyor rakṣo-hátyāya vajrivaḥ | sāsahī́ṣṭhā abhí spṛ́dhaḥ ||
Wield the thunderbolt in your two hands, O bearer of the bolt, for the slaying of the dark hostile powers; most victorious, press upon and overpower the opposing forces.
धि॒ष्व । वज्र॑म् । गभ॑स्त्योः । र॒क्षः॒ऽहत्या॑य । व॒ज्रि॒ऽवः॒ । स॒स॒ही॒ष्ठाः । अ॒भि । स्पृधः॑ ॥धिष्व । वज्रम् । गभस्त्योः । रक्षःहत्याय । वज्रिवः । ससहीष्ठाः । अभि । स्पृधः ॥dhiṣva | vajram | gabhastyoḥ | rakṣaḥ-hatyāya | vajri-vaḥ | sasahīṣṭhāḥ | abhi | spṛdhaḥ