Sukta 6.45
यो गृणतामिदासिथापिरूती शिवः सखा । स त्वं न इन्द्र मृळय ॥
यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ । स त्वं न॑ इन्द्र मृळय ॥
yó gṛ́ṇatām íd āsíthā́pirūtī́ śiváḥ sakhā́ | sá tváṃ na indra mṛḷaya ||
O Indra, you who are indeed the near support and the saving help for those who utter the inspired word, the benign friend—do you, that very one, pour your grace upon us.
यः । गृ॒ण॒ताम् । इत् । आसि॑थ । आ॒पिः । ऊ॒ती । शि॒वः । सखा॑ । सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥यः । गृणताम् । इत् । आसिथ । आपिः । ऊती । शिवः । सखा । सः । त्वम् । नः । इन्द्र । मृळय ॥yaḥ | gṛṇatām | it | āsitha | āpiḥ | ūtī | śivaḥ | sakhā | saḥ | tvam | naḥ | indra | mṛḷaya