Sukta 6.45
धीभिरर्वद्भिरर्वतो वाजाँ इन्द्र श्रवाय्यान् । त्वया जेष्म हितं धनम् ॥
धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ॑ इन्द्र श्र॒वाय्या॑न् । त्वया॑ जेष्म हि॒तं धन॑म् ॥
dhībhír arvádbhir árvato vājā́m̐ índra śravā́yyān | tváyā jeṣma hitáṃ dhánam ||
With illumined thoughts and with the swift powers, O Indra, may we win the plenitudes that bring the higher hearing; by you may we conquer the cherished wealth established for our good.
धी॒भिः । अर्व॑त्ऽभिः । अर्व॑तः । वाजा॑न् । इ॒न्द्र॒ । श्र॒वाय्या॑न् । त्वया॑ । जे॒ष्म॒ । हि॒तम् । धन॑म् ॥धीभिः । अर्वत्भिः । अर्वतः । वाजान् । इन्द्र । श्रवाय्यान् । त्वया । जेष्म । हितम् । धनम् ॥dhībhiḥ | arvat-bhiḥ | arvataḥ | vājān | indra | śravāyyān | tvayā | jeṣma | hitam | dhanam