Sukta 6.45
तमु त्वा यः पुरासिथ यो वा नूनं हिते धने । हव्यः स श्रुधी हवम् ॥
तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ । हव्य॒: स श्रु॑धी॒ हव॑म् ॥
tám u tvā yáḥ purā́ ásitha yó vā nūnáṃ hité dháne | hávyaḥ sá śrudhī hávam ||
You whom we had before, and you who are even now in our cherished gain—being invoked, listen to the call; enter the offering and make the inner wealth secure.
तम् । ऊँ॒ इति॑ । त्वा॒ । यः । पु॒रा । आसि॑थ । यः । वा॒ । नू॒नम् । हि॒ते । धने॑ । हव्यः॑ । सः । श्रु॒धि॒ । हव॑म् ॥तम् । ऊँ इति । त्वा । यः । पुरा । आसिथ । यः । वा । नूनम् । हिते । धने । हव्यः । सः । श्रुधि । हवम् ॥tam | oṃ iti | tvā | yaḥ | purā | āsitha | yaḥ | vā | nūnam | hite | dhane | havyaḥ | saḥ | śrudh i | havam