Sukta 6.45
तमु त्वा सत्य सोमपा इन्द्र वाजानां पते । अहूमहि श्रवस्यवः ॥
तमु॑ त्वा सत्य सोमपा॒ इन्द्र॑ वाजानां पते । अहू॑महि श्रव॒स्यव॑: ॥
tám u tvā satya somapā́ índra vājānāṃ pate | áhūmahi śravasyávaḥ ||
You—O true one, drinker of Soma, lord of plenitudes of force—we call you, desiring the hearing of the higher fame: come and increase in us the victorious energy.
तम् । ऊँ॒ इति॑ । त्वा॒ । स॒त्य॒ । सो॒म॒ऽपाः॒ । इन्द्र॑ । वा॒जा॒ना॒म् । प॒ते॒ । अहू॑महि । श्र॒व॒स्यवः॑ ॥तम् । ऊँ इति । त्वा । सत्य । सोमपाः । इन्द्र । वाजानाम् । पते । अहूमहि । श्रवस्यवः ॥tam | oṃ iti | tvā | satya | soma-pāḥ | indra | vājānām | pate | ahūmahi | śravasyavaḥ