Sukta 6.44
द्युमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः । वर्षीयो वयः कृणुहि शचीभिर्धनस्य सातावस्माँ अविड्ढि ॥
द्यु॒मत्त॑मं॒ दक्षं॑ धेह्य॒स्मे सेधा॒ जना॑नां पू॒र्वीररा॑तीः । वर्षी॑यो॒ वय॑: कृणुहि॒ शची॑भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ॥
dyumáttamaṃ dákṣaṃ dhehy asmè sédhā jánānāṃ pūrvī́r arā́tīḥ | várṣīyo váyaḥ kṛṇuhi śácībhiḥ dhánasya sātā́v asmā́ṃ aviḍḍhi ||
Set in us the most luminous discernment; repel the ancient hostilities of men. Make our vital being more abounding by thy powers of skill, and in the winning of plenitude, strike through and secure us.
द्यु॒मत्ऽत॑मम् । दक्ष॑म् । धे॒हि॒ । अ॒स्मे इति॑ । सेध॑ । जना॑नाम् । पू॒र्वीः । अरा॑तीः । वर्षी॑यः । वयः॑ । कृ॒णु॒हि॒ । शची॑भिः । धन॑स्य । सा॒तौ । अ॒स्मान् । अ॒वि॒ड्ढि॒ ॥द्युमत्तमम् । दक्षम् । धेहि । अस्मे इति । सेध । जनानाम् । पूर्वीः । अरातीः । वर्षीयः । वयः । कृणुहि । शचीभिः । धनस्य । सातौ । अस्मान् । अविड्ढि ॥dyumat-tamam | dakṣam | dhehi | asme iti | sedha | janānām | pūrvīḥ | arātīḥ | varṣīyaḥ | vayaḥ | kṛṇuhi | śacībhiḥ | dhanasya | sātau | asmān | aviḍḍhi