Sukta 6.44
इन्द्र तुभ्यमिन्मघवन्नभूम वयं दात्रे हरिवो मा वि वेनः । नकिरापिर्ददृशे मर्त्यत्रा किमङ्ग रध्रचोदनं त्वाहुः ॥
इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे॑नः । नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः ॥
índra túbhyam ín maghavann abhūma vayáṃ dātré harivo mā́ ví vénaḥ | nákir ā́pir dadṛśe mártyatrā́ kím aṅgá radhrá-codanaṃ tvā́huḥ ||
Indra, to thee alone, O bounteous one, we have become givers; O lord of the tawny steeds, do not estrange us. No limit or boundary is seen of thee in the mortal field—why then do they call thee a mover of the crippled?
इन्द्र॑ । तुभ्य॑म् । इत् । म॒घ॒ऽव॒न् । अ॒भू॒म॒ । व॒यम् । दा॒त्रे । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ । नकिः॑ । आ॒पिः । द॒दृ॒शे॒ । म॒र्त्य॒ऽत्रा । किम् । अ॒ङ्ग । र॒ध्र॒ऽचोद॑नम् । त्वा॒ । आ॒हुः ॥इन्द्र । तुभ्यम् । इत् । मघवन् । अभूम । वयम् । दात्रे । हरिवः । मा । वि । वेनः । नकिः । आपिः । ददृशे । मर्त्यत्रा । किम् । अङ्ग । रध्रचोदनम् । त्वा । आहुः ॥indra | tubhyam | it | magha-van | abhūma | vayam | dātre | hari-vaḥ | mā | vi | venaḥ | nakiḥ | āpiḥ | dadṛśe | martya-trā | kim | aṅga | radhra-codanam | tvā | āhuḥ