Sukta 6.44
ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् । दधानो नाम महो वचोभिर्वपुर्दृशये वेन्यो व्यावः ॥
ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनां॑सि दे॒वासो॑ अक्रन् । दधा॑नो॒ नाम॑ म॒हो वचो॑भि॒र्वपु॑र्दृ॒शये॑ वे॒न्यो व्या॑वः ॥
ṛtásya pathí vedhā́ apāyi śríye manā́ṃsi devā́so akran | dádhāno nā́ma mahó vácobhir vápur dṛśáye vényo vyā́vaḥ ||
On the path of Ṛta the wise disposer has advanced; the gods fashioned the minds for the splendour. Bearing the Name of the Vast through the word, the desirable One opened out his form for vision.
ऋ॒तस्य॑ । प॒थि । वे॒धाः । अ॒पा॒यि॒ । श्रि॒ये । मनां॑सि । दे॒वासः॑ । अ॒क्र॒न् । दधा॑नः । नाम॑ । म॒हः । वचः॑ऽभिः । वपुः॑ । दृ॒शये॑ । वे॒न्यः । वि । आ॒व॒रित्या॑वः ॥ऋतस्य । पथि । वेधाः । अपायि । श्रिये । मनांसि । देवासः । अक्रन् । दधानः । नाम । महः । वचःभिः । वपुः । दृशये । वेन्यः । वि । आवरित्यावः ॥ṛtasya | pathi | vedhāḥ | apāyi | śriye | manāṃsi | devāsaḥ | akran | dadhānaḥ | nāma | mahaḥ | vacaḥ-bhiḥ | vapuḥ | dṛśaye | venyaḥ | vi | āvar ity āvaḥ