Sukta 6.44
अविदद्दक्षं मित्रो नवीयान्पपानो देवेभ्यो वस्यो अचैत् । ससवान्त्स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत्सखिभ्यः ॥
अवि॑द॒द्दक्षं॑ मि॒त्रो नवी॑यान्पपा॒नो दे॒वेभ्यो॒ वस्यो॑ अचैत् । स॒स॒वान्त्स्तौ॒लाभि॑र्धौ॒तरी॑भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ॥
ávidad dákṣaṃ mitró navī́yān papā́no devébhyo vásyo acait | sasavā́nts staulā́bhir dhautarī́bhir uruṣyā́ pāyúr abhavat sákhībhyaḥ ||
He found the right skill and discernment, like Mitra ever-new; drinking, he perceived what is better for the gods. Winning with firm and purified means, he became a wide protection, a guardian for his comrades.
अवि॑दत् । दक्ष॑म् । मि॒त्रः । नवी॑यान् । प॒पा॒नः । दे॒वेभ्यः॑ । वस्यः॑ । अ॒चै॒त् । स॒स॒ऽवान् । स्तौ॒लाभिः॑ । धौ॒तरी॑भिः । उ॒रु॒ष्या । पा॒युः । अ॒भ॒व॒त् । सखि॑ऽभ्यः ॥अविदत् । दक्षम् । मित्रः । नवीयान् । पपानः । देवेभ्यः । वस्यः । अचैत् । ससवान् । स्तौलाभिः । धौतरीभिः । उरुष्या । पायुः । अभवत् । सखिभ्यः ॥avidat | dakṣam | mitraḥ | navīyān | papānaḥ | devebhyaḥ | vasyaḥ | acait | sasa-vān | staulābhiḥ | dhautarībhiḥ | uruṣyā | pāyuḥ | abhavat | sakhi-bhyaḥ