Sukta 6.44
तद्व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि । विपो न यस्योतयो वि यद्रोहन्ति सक्षितः ॥
तद्व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा॑योपस्तृणी॒षणि॑ । विपो॒ न यस्यो॒तयो॒ वि यद्रोह॑न्ति स॒क्षित॑: ॥
tád va uktʰásya barháṇendrā́yopastṛṇīṣáṇi | vípo ná yásyotáyo ví yád róhanti sakṣítaḥ ||
Therefore spread out for Indra the strongening seat of the hymn; for his helps rise and branch out like inspired seers in their settled mastery.
तत् । वः॒ । उ॒क्थस्य॑ । ब॒र्हणा॑ । इन्द्रा॑य । उ॒प॒ऽस्तृ॒णी॒षणि॑ । विपः॑ । न । यस्य॑ । ऊ॒तयः॑ । वि । यत् । रोह॑न्ति । स॒ऽक्षितः॑ ॥तत् । वः । उक्थस्य । बर्हणा । इन्द्राय । उपस्तृणीषणि । विपः । न । यस्य । ऊतयः । वि । यत् । रोहन्ति । सक्षितः ॥tat | vaḥ | ukthasya | barhaṇā | indrāya | upa-stṛṇīṣaṇi | vipaḥ | na | yasya | ūtayaḥ | vi | yat | rohanti | sa-kṣitaḥ