Sukta 6.44
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् । इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम् ॥
त्यमु॑ वो॒ अप्र॑हणं गृणी॒षे शव॑स॒स्पति॑म् । इन्द्रं॑ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम् ॥
tyám u vo áprahaṇaṃ gṛṇīṣé śávasas pátim | índraṃ viśvāsáhaṃ náraṃ maṃhíṣṭhaṃ viśvácarṣaṇim ||
Him I hymn for you—Indra, the unassailable, the lord of force; the all-conquering hero, most bountiful, who presses forward in all human kindreds.
त्यम् । ऊँ॒ इति॑ । वः॒ । अप्र॑ऽहनम् । गृ॒णी॒षे । शव॑सः । पति॑म् । इन्द्र॑म् । वि॒श्व॒ऽसह॑म् । नर॑म् । मंहि॑ष्ठम् । वि॒श्वऽच॑र्षणिम् ॥त्यम् । ऊँ इति । वः । अप्रहनम् । गृणीषे । शवसः । पतिम् । इन्द्रम् । विश्वसहम् । नरम् । मंहिष्ठम् । विश्वचर्षणिम् ॥tyam | oṃ iti | vaḥ | apra-hanam | gṛṇīṣe | śavasaḥ | patim | indram | viśva-saham | naram | maṃhiṣṭham | viśva-carṣaṇim