Sukta 6.44
येन वृद्धो न शवसा तुरो न स्वाभिरूतिभिः । सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥
येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभि॑: । सोम॑: सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मद॑: ॥
yéna vṛddhó ná śávasā turó ná svā́bhir ūtíbhiḥ | sómaḥ sutáḥ sá índra té’sti svadhā́pate mádaḥ ||
By which thou growest as if increased in might, as if swift with thine own helps—this pressed Soma is for thee, O Indra, a rapture, O lord of the soul’s self-law.
येन॑ । वृ॒द्धः । न । शव॑सा । तु॒रः । न । स्वाभिः॑ । ऊ॒तिऽभिः॑ । सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ मदः॑ ॥येन । वृद्धः । न । शवसा । तुरः । न । स्वाभिः । ऊतिभिः । सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधापते मदः ॥yena | vṛddhaḥ | na | śavasā | turaḥ | na | svābhiḥ | ūti-bhiḥ | somaḥ | sutaḥ | saḥ | indra | te | asti | svadhāpatemadaḥ