Sukta 6.44
यः शग्मस्तुविशग्म ते रायो दामा मतीनाम् । सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥
यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम् । सोम॑: सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मद॑: ॥
yáḥ śagmás tuvíśagma te rāyó dā́mā matīnā́m | sómaḥ sutáḥ sá índra té’sti svadhā́pate mádaḥ ||
That pressed Soma—strong and vehemently strong—becomes for thee, O Indra, the giver and binder of plenitudes for our thoughts; it is thy rapture, O lord of svadhā.
यः । श॒ग्मः । तु॒वि॒ऽश॒ग्म॒ । ते॒ । रा॒यः । दा॒मा । म॒ती॒नाम् । सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ मदः॑ ॥यः । शग्मः । तुविशग्म । ते । रायः । दामा । मतीनाम् । सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधापते मदः ॥yaḥ | śagmaḥ | tuvi-śagma | te | rāyaḥ | dāmā | matīnām | somaḥ | sutaḥ | saḥ | indra | te | asti | svadhāpatemadaḥ