Sukta 6.44
अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः । अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम् ॥
अ॒यम॑कृणोदु॒षस॑: सु॒पत्नी॑र॒यं सूर्ये॑ अदधा॒ज्ज्योति॑र॒न्तः । अ॒यं त्रि॒धातु॑ दि॒वि रो॑च॒नेष॒॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू॑ळ्हम् ॥
ayám akṛṇod uṣásaḥ su-pátnīr ayáṃ sū́rye adadhāj jyótiḥ antáḥ | ayáṃ tri-dhā́tu diví rocanéṣu tritéṣu vindad amṛ́taṃ ní-gūḷham ||
This power made the Dawns good-mated; this set the Light within the Sun. This established the triple foundation in the luminous heavens; in the realms of Trita it found the hidden immortality.
अ॒यम् । अ॒कृ॒णो॒त् । उ॒षसः॑ । सु॒ऽपत्नीः॑ । अ॒यम् । सूर्ये॑ । अ॒द॒धा॒त् । ज्योतिः॑ । अ॒न्तरिति॑ । अ॒यम् । त्रि॒ऽधातु॑ । दि॒वि । रो॒च॒नेषु॑ । त्रि॒तेषु॑ । वि॒न्द॒त् । अ॒मृत॑म् । निऽगू॑ळ्हम् ॥अयम् । अकृणोत् । उषसः । सुपत्नीः । अयम् । सूर्ये । अदधात् । ज्योतिः । अन्तरिति । अयम् । त्रिधातु । दिवि । रोचनेषु । त्रितेषु । विन्दत् । अमृतम् । निगूळ्हम् ॥ayam | akṛṇot | uṣasaḥ | su-patnīḥ | ayam | sūrye | adadhāt | jyotiḥ | antariti | ayam | tri-dhātu | divi | rocaneṣu | triteṣu | vindat | amṛtam | ni-gūḷham