Sukta 6.44
अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिम् । अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम् ॥
अ॒यं द्यावा॑पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिम् । अ॒यं गोषु॒ शच्या॑ प॒क्वम॒न्तः सोमो॑ दाधार॒ दश॑यन्त्र॒मुत्स॑म् ॥
ayáṃ dyāvāpṛthivī́ ví skabhāyad ayáṃ rátham ayunak sápta-raśmim | ayáṃ góṣu śácyā pakvám antáḥ sómo dādhāra dáśa-yantram útsam ||
This power propped apart Heaven-and-Earth; this yoked the chariot with seven reins. This, by the master-skill, ripened within the Cows; Soma held the spring with tenfold instruments.
अ॒यम् । द्यावा॑पृथि॒वी इति॑ । वि । स्क॒भा॒य॒त् । अ॒यम् । रथ॑म् । अ॒यु॒न॒क् । स॒प्तऽर॑श्मिम् । अ॒यम् । गोषु॑ । शच्या॑ । प॒क्वम् । अ॒न्तरिति॑ । सोमः॑ । दा॒धा॒र॒ । दश॑ऽयन्त्रम् । उत्स॑म् ॥अयम् । द्यावापृथिवी इति । वि । स्कभायत् । अयम् । रथम् । अयुनक् । सप्तरश्मिम् । अयम् । गोषु । शच्या । पक्वम् । अन्तरिति । सोमः । दाधार । दशयन्त्रम् । उत्सम् ॥ayam | dyāvāpṛthivī iti | vi | skabhāyat | ayam | ratham | ayunak | sapta-raśmim | ayam | goṣu | śacyā | pakvam | antariti | somaḥ | dādhāra | daśa-yantram | utsam