Sukta 6.44
अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत् । अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः ॥
अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे॑ण यु॒जा प॒णिम॑स्तभायत् । अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥
ayáṃ deváḥ sáhasā jā́yamāna índreṇa yujā́ paṇím astabhāyat | ayáṃ svásya pitúr ā́yudhānī́ndur amuṣṇād áśivasya māyā́ḥ ||
This god, born by force, with Indra as his yoke-fellow, struck down the Paṇi. This Indu stole back the weapons of his own Father from the unbenign one’s deceits.
अ॒यम् । दे॒वः । सह॑सा । जाय॑मानः । इन्द्रे॑ण । यु॒जा । प॒णिम् । अ॒स्त॒भा॒य॒त् । अ॒यम् । स्वस्य॑ । पि॒तुः । आयु॑धानि । इन्दुः॑ । अ॒मु॒ष्णा॒त् । अशि॑वस्य । मा॒याः ॥अयम् । देवः । सहसा । जायमानः । इन्द्रेण । युजा । पणिम् । अस्तभायत् । अयम् । स्वस्य । पितुः । आयुधानि । इन्दुः । अमुष्णात् । अशिवस्य । मायाः ॥ayam | devaḥ | sahasā | jāyamānaḥ | indreṇa | yujā | paṇim | astabhāyat | ayam | svasya | pituḥ | āyudhāni | induḥ | amuṣṇāt | aśivasya | māyāḥ