Sukta 6.44
वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभः स्तियानाम् । वृष्णे त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥
वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू॑नां वृष॒भः स्तिया॑नाम् । वृष्णे॑ त॒ इन्दु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥
vṛ́ṣāsi divó vṛ́ṣabhaḥ pṛthivyā́ vṛ́ṣā síndhūnāṃ vṛ́ṣabhaḥ stiyā́nām | vṛ́ṣṇe te índur vṛṣabha pīpāya svādú rásaḥ madhu-péyo várāya ||
Thou art the Bull-force of heaven, the Bull of the earth; the Bull of the streams and the strong lord of the firm stations. For thee, O bull-power, the Soma-drop swells—sweet is the essence, honey-drink for the chooser of the supreme.
वृषा॑ । अ॒सि॒ । दि॒वः । वृ॒ष॒भः । पृ॒थि॒व्याः । वृषा॑ । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् । वृष्णे॑ । ते॒ । इन्दुः॑ । वृ॒ष॒भ॒ । पी॒पा॒य॒ । स्वा॒दुः । रसः॑ । म॒धु॒ऽपेयः॑ । वरा॑य ॥वृषा । असि । दिवः । वृषभः । पृथिव्याः । वृषा । सिन्धूनाम् । वृषभः । स्तियानाम् । वृष्णे । ते । इन्दुः । वृषभ । पीपाय । स्वादुः । रसः । मधुपेयः । वराय ॥vṛṣā | asi | divaḥ | vṛṣabhaḥ | pṛthivyāḥ | vṛṣā | sindhūnām | vṛṣabhaḥ | stiyānām | vṛṣṇe | te | induḥ | vṛṣabha | pīpāya | svāduḥ | rasaḥ | madhu-peyaḥ | varāya