Sukta 6.44
आ ते वृषन्वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदन्तः । इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ॥
आ ते॑ वृष॒न्वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद॑न्तः । इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे॑ भरन्ति वृष॒भाय॒ सोम॑म् ॥
ā́ te vṛṣan vṛ́ṣaṇo dróṇam asthur ghṛtá-pruṣo nó ū́rmayo mádantaḥ | índra prá túbhyaṃ vṛ́ṣabhíḥ sutā́nāṃ vṛ́ṣṇe bharanti vṛṣabhā́ya sómam ||
For you, O Bull, the mighty streams have taken their place in the trough, like waves that drip with ghee, exulting. O Indra, for you they bring forward, with the strong pressings, the Soma—Soma for the Bull, for the master of the force.
आ । ते॒ । वृ॒ष॒न् । वृष॑णः । द्रोण॑म् । अ॒स्थुः॒ । घृ॒त॒ऽप्रुषः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः । इन्द्र॑ । प्र । तुभ्य॑म् । वृष॑ऽभिः । सु॒ताना॑म् । वृष्णे॑ । भ॒र॒न्ति॒ । वृ॒ष॒भाय॑ । सोम॑म् ॥आ । ते । वृषन् । वृषणः । द्रोणम् । अस्थुः । घृतप्रुषः । न । ऊर्मयः । मदन्तः । इन्द्र । प्र । तुभ्यम् । वृषभिः । सुतानाम् । वृष्णे । भरन्ति । वृषभाय । सोमम् ॥ā | te | vṛṣan | vṛṣaṇaḥ | droṇam | asthuḥ | ghṛta-pruṣaḥ | na | ūrmayaḥ | madantaḥ | indra | pra | tubhyam | vṛṣa-bhiḥ | sutānām | vṛṣṇe | bharanti | vṛṣabhāya | somam