Sukta 6.44
आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयोऽत्याः । अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ॥
आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्या॑: । अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा॑य सु॒युजो॑ वहन्तु ॥
ā́ tvā háryo vṛ́ṣaṇo yujānā́ vṛ́ṣa-rathāso vṛ́ṣa-raśmayo 'tyā́ḥ | asmatrā́ñco vṛ́ṣaṇo vajra-vā́ho vṛ́ṣṇe mádāya su-yújo vahantu ||
Let your tawny steeds, yoked in their might—bull-charioted, bull-reined—bring you hither toward us; those bull-powers that bear the thunderbolt, well-yoked, to your ecstasy, O Bull of the soul-force.
आ । त्वा॒ । हर॑यः । वृष॑णः । यु॒जा॒नाः । वृष॑ऽरथासः । वृष॑ऽरश्मयः । अत्याः॑ । अ॒स्म॒त्राञ्चः॑ । वृष॑णः । व॒ज्र॒ऽवाहः॑ । वृष्णे॑ । मदा॑य । सु॒ऽयुजः॑ । व॒ह॒न्तु॒ ॥आ । त्वा । हरयः । वृषणः । युजानाः । वृषरथासः । वृषरश्मयः । अत्याः । अस्मत्राञ्चः । वृषणः । वज्रवाहः । वृष्णे । मदाय । सुयुजः । वहन्तु ॥ā | tvā | harayaḥ | vṛṣaṇaḥ | yujānāḥ | vṛṣa-rathāsaḥ | vṛṣa-raśmayaḥ | atyāḥ | asmatrāñcaḥ | vṛṣaṇaḥ | vajra-vāhaḥ | vṛṣṇe | madāya | su-yujaḥ | vahantu