Sukta 6.44
यो रयिवो रयिंतमो यो द्युम्नैर्द्युम्नवत्तमः । सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥
यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः । सोम॑: सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मद॑: ॥
yó ráyivo rayíṁtamo yó dyumnáir dyumnávattamaḥ | sómaḥ sutáḥ sá índra té’sti svadhā́pate mádaḥ ||
That pressed Soma—most rich in the powers of plenitude, most luminous with lights—this is for thee, O Indra, lord of the soul’s own law (svadhā), a rapture and intoxication of force.
यः । र॒यि॒ऽवः॒ । र॒यिम्ऽत॑मः । यः । द्यु॒म्नैः । द्यु॒म्नव॑त्ऽतमः । सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ मदः॑ ॥यः । रयिवः । रयिम्तमः । यः । द्युम्नैः । द्युम्नवत्तमः । सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधापते मदः ॥yaḥ | rayi-vaḥ | rayim-tamaḥ | yaḥ | dyumnaiḥ | dyumnavat-tamaḥ | somaḥ | sutaḥ | saḥ | indra | te | asti | svadhāpatemadaḥ