Sukta 6.44
आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः । अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम् ॥
आ॒सु ष्मा॑ णो मघवन्निन्द्र पृ॒त्स्व१॒॑स्मभ्यं॒ महि॒ वरि॑वः सु॒गं क॑: । अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन्कृ॑णु॒हि स्मा॑ नो अ॒र्धम् ॥
ā́su ṣmā no maghavann indra pṛtsv asmábhyaṃ máhi várivaḥ su-gáṃ kaḥ | apā́ṃ tokásya tánayasya jéṣe índra sūrī́n kṛṇúhi smā no árdham ||
Now, O bounteous Indra, in the battles make for us a vast wide space, an easy path. For the winning of waters, of the child and the offspring, O Indra, make us possessors of luminous mastery; make us indeed your portion.
आ॒सु । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । पृ॒त्ऽसु । अ॒स्मभ्य॑म् । महि॑ । वरि॑वः । सु॒ऽगम् । क॒रिति॑ कः । अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । इन्द्र॑ । सू॒रीन् । कृ॒णु॒हि । स्म॒ । नः॒ । अ॒र्धम् ॥आसु । स्म । नः । मघवन् । इन्द्र । पृत्सु । अस्मभ्यम् । महि । वरिवः । सुगम् । करिति कः । अपाम् । तोकस्य । तनयस्य । जेषे । इन्द्र । सूरीन् । कृणुहि । स्म । नः । अर्धम् ॥āsu | sma | naḥ | magha-van | indra | pṛt-su | asmabhyam | mahi | varivaḥ | su-gam | karitikaḥ | apām | tokasya | tanayasya | jeṣe | indra | sūrīn | kṛṇuhi | sma | naḥ | ardham