Sukta 6.44
इदं त्यत्पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपायि । मत्सद्यथा सौमनसाय देवं व्यस्मद्द्वेषो युयवद्व्यंहः ॥
इ॒दं त्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि । मत्स॒द्यथा॑ सौमन॒साय॑ दे॒वं व्य१॒॑स्मद्द्वेषो॑ यु॒यव॒द्व्यंह॑: ॥
idáṃ tyát pā́tram indra-pā́nam índrasya priyám amṛ́tam apāyi | mátsad yáthā saumanasā́ya deváṃ vy àsmád dveṣó yuyávad vy à́ṃhaḥ ||
This cup, meant for Indra’s drinking, Indra’s beloved immortality, has been drunk. Let it intoxicate him for a gladness of mind toward the divine; and let it drive away from us hatred, drive away distress and sin.
इ॒दम् । त्यत् । पात्र॑म् । इ॒न्द्र॒ऽपान॑म् । इन्द्र॑स्य । प्रि॒यम् । अ॒मृत॑म् । अ॒पा॒यि॒ । मत्स॑त् । यथा॑ । सौ॒म॒न॒साय॑ । दे॒वम् । वि । अ॒स्मत् । द्वेषः॑ । यु॒यव॑त् । वि । अंहः॑ ॥इदम् । त्यत् । पात्रम् । इन्द्रपानम् । इन्द्रस्य । प्रियम् । अमृतम् । अपायि । मत्सत् । यथा । सौमनसाय । देवम् । वि । अस्मत् । द्वेषः । युयवत् । वि । अंहः ॥idam | tyat | pātram | indra-pānam | indrasya | priyam | amṛtam | apāyi | matsat | yathā | saumanasāya | devam | vi | asmat | dveṣaḥ | yuyavat | vi | aṃhaḥ