Sukta 6.44
अध्वर्यो वीर प्र महे सुतानामिन्द्राय भर स ह्यस्य राजा । यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम् ॥
अध्व॑र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा॑य भर॒ स ह्य॑स्य॒ राजा॑ । यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा॑वृ॒धे गृ॑ण॒तामृषी॑णाम् ॥
ádhvaryo vīra prá mahé sutā́nām índrāya bhara sá hy asyá rājā́ | yáḥ pūrvyā́bhir utá nū́tanābhir gī́rbhir vāvṛdhé gṛṇatā́m ṛ́ṣīṇām ||
O Adhvaryu, strong one, bring forward the great pressed Soma for Indra, for he is the king of this offering. He who is increased by the ancient and the ever-new hymns, by the utterances of the seers who praise.
अध्व॑र्यो॒ इति॑ । वी॒र॒ । प्र । म॒हे । सु॒ताना॑म् । इन्द्रा॑य । भ॒र॒ । सः । हि । अ॒स्य॒ । राजा॑ । यः । पू॒र्व्याभिः॑ । उ॒त । नूत॑नाभिः । गीः॒ऽभिः । व॒वृ॒धे । गृ॒ण॒ताम् । ऋषी॑णाम् ॥अध्वर्यो इति । वीर । प्र । महे । सुतानाम् । इन्द्राय । भर । सः । हि । अस्य । राजा । यः । पूर्व्याभिः । उत । नूतनाभिः । गीःभिः । ववृधे । गृणताम् । ऋषीणाम् ॥adhvaryo iti | vīra | pra | mahe | sutānām | indrāya | bhara | saḥ | hi | asya | rājā | yaḥ | pūrvyābhiḥ | uta | nūtanābhiḥ | gīḥ-bhiḥ | vavṛdhe | gṛṇatām | ṛṣīṇām