Sukta 6.44
उदभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या । त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः ॥
उद॒भ्राणी॑व स्त॒नय॑न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या॑नि॒ गव्या॑ । त्वम॑सि प्र॒दिव॑: का॒रुधा॑या॒ मा त्वा॑दा॒मान॒ आ द॑भन्म॒घोन॑: ॥
ud abhrā́ṇīva stanáyann iyartī́ndro rā́dhāṃsy aśvyā́ni gavyā́ | tvám asi pra-diváḥ kārú-dhāyā́ mā tvā adā́māna ā́ dabhan maghónaḥ ||
Thundering like a rising cloud, Indra sets in motion the bounties—powers of the horse and the cow, energies of swift force and rays of knowledge. You are the upholder of the singer’s work from the farther heaven; let not the ungiving diminish you, O bounteous one, by their assault.
उत् । अ॒भ्राणि॑ऽइव । स्त॒नय॑न् । इ॒य॒र्ति॒ । इन्द्रः॑ । राधां॑सि । अश्व्या॑नि । गव्या॑ । त्वम् । आ॒सि॒ । प्र॒ऽदिवः॑ । का॒रुऽधा॑याः । मा । त्वा॒ । अ॒दा॒मानः॑ । आ । द॒भ॒न् । म॒घोनः॑ ॥उत् । अभ्राणिइव । स्तनयन् । इयर्ति । इन्द्रः । राधांसि । अश्व्यानि । गव्या । त्वम् । आसि । प्रदिवः । कारुधायाः । मा । त्वा । अदामानः । आ । दभन् । मघोनः ॥ut | abhrāṇi-iva | stanayan | iyarti | indraḥ | rādhāṃsi | aśvyāni | gavyā | tvam | āsi | pra-divaḥ | kāru-dhāyāḥ | mā | tvā | adāmānaḥ | ā | dabhan | maghonaḥ