Sukta 6.41
सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय । एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व ॥
सु॒तः सोमो॒ असु॑तादिन्द्र॒ वस्या॑न॒यं श्रेया॑ञ्चिकि॒तुषे॒ रणा॑य । ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥
sutáḥ sómo ásutād indra vásyān ayáṃ śréyāñ cikitúṣe ráṇāya | etáṃ titirváḥ úpa yāhi yajñáṃ téna víśvā́s táviṣīr ā́ pṛṇasva ||
The Soma is pressed out—more potent than what is unpressed, O Indra; this here is the better, for the knower, for the battle. Come up to this sacrifice, overcoming all insufficiency; by it fill all your powers of force within us.
सु॒तः । सोमः॑ । असु॑तात् । इ॒न्द्र॒ । वस्या॑न् । अ॒यम् । श्रेया॑न् । चि॒कि॒तुषे॑ । रणा॑य । ए॒तम् । ति॒ति॒र्वः॒ । उप॑ । या॒हि॒ । य॒ज्ञम् । तेन॑ । विश्वाः॑ । तवि॑षीः । आ । पृ॒ण॒स्व॒ ॥सुतः । सोमः । असुतात् । इन्द्र । वस्यान् । अयम् । श्रेयान् । चिकितुषे । रणाय । एतम् । तितिर्वः । उप । याहि । यज्ञम् । तेन । विश्वाः । तविषीः । आ । पृणस्व ॥sutaḥ | somaḥ | asutāt | indra | vasyān | ayam | śreyān | cikituṣe | raṇāya | etam | titirvaḥ | upa | yāhi | yajñam | tena | viśvāḥ | taviṣīḥ | ā | pṛṇasva