Sukta 6.41
एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः । एतं पिब हरिवः स्थातरुग्र यस्येशिषे प्रदिवि यस्ते अन्नम् ॥
ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू॑प॒ इन्द्रा॑य॒ वृष्णे॒ सम॑कारि॒ सोम॑: । ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्न॑म् ॥
eṣá drápsō vṛṣabhó viśvá-rūpa índrāya vṛ́ṣṇe sám akāri sómaḥ | etáṃ píba harivaḥ sthā́tar ugrá yásyeśiṣe prá-divi yás te ánnam ||
This drop—bull, of all forms—Soma has been made ready for Indra the strong. Drink it, O lord of the tawny steeds; stand firm, O puissant one, for the one whose mastery reaches into the forward heaven, and whose food is this.
ए॒षः । द्र॒प्सः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । इन्द्रा॑य । वृष्णे॑ । सम् । अ॒का॒रि॒ । सोमः॑ । ए॒तम् । पि॒ब॒ । ह॒रि॒ऽवः॒ । स्था॒तः॒ । उ॒ग्र॒ । यस्य॑ । ईशि॑षे । प्र॒ऽदिवि॑ । यः । ते॒ । अन्न॑म् ॥एषः । द्रप्सः । वृषभः । विश्वरूपः । इन्द्राय । वृष्णे । सम् । अकारि । सोमः । एतम् । पिब । हरिवः । स्थातः । उग्र । यस्य । ईशिषे । प्रदिवि । यः । ते । अन्नम् ॥eṣaḥ | drapsaḥ | vṛṣabhaḥ | viśva-rūpaḥ | indrāya | vṛṣṇe | sam | akāri | somaḥ | etam | piba | hari-vaḥ | sthātaḥ | ugra | yasya | īśiṣe | pra-divi | yaḥ | te | annam