Sukta 6.41
या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिम् । तया पाहि प्र ते अध्वर्युरस्थात्सं ते वज्रो वर्ततामिन्द्र गव्युः ॥
या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् । तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः ॥
yā́ te kākút su-kṛtā́ yā́ váriṣṭhā yayā́ śáśvat píbasi mádhva ū́rmim | táyā pāhi prá te adhvaryúr asthāt sáṃ te vájro vartatām indra gavyúḥ ||
That well-made uplift of yours, the most excellent, by which you ever drink the wave of sweetness—by that protect us. The Adhvaryu has stood forth for you; let your thunderbolt turn wholly toward the quest of the rays (the luminous herds), O Indra.
या । ते॒ । का॒कुत् । सुऽकृ॑ता । या । वरि॑ष्ठा । यया॑ । शश्व॑त् । पिब॑सि । मध्वः॑ । ऊ॒र्मिम् । तया॑ । पा॒हि॒ । प्र । ते॒ । अ॒ध्व॒र्युः । अ॒स्था॒त् । सम् । ते॒ । वज्रः॑ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । ग॒व्युः ॥या । ते । काकुत् । सुकृता । या । वरिष्ठा । यया । शश्वत् । पिबसि । मध्वः । ऊर्मिम् । तया । पाहि । प्र । ते । अध्वर्युः । अस्थात् । सम् । ते । वज्रः । वर्तताम् । इन्द्र । गव्युः ॥yā | te | kākut | su-kṛtā | yā | variṣṭhā | yayā | śaśvat | pibasi | madhvaḥ | ūrmim | tayā | pāhi | pra | te | adhvaryuḥ | asthāt | sam | te | vajraḥ | vartatām | indra | gavyuḥ