Sukta 6.41
अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः । गावो न वज्रिन्त्स्वमोको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥
अहे॑ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं॑ पवन्त॒ इन्द॑वः सु॒तास॑: । गावो॒ न व॑ज्रि॒न्त्स्वमोको॒ अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् ॥
aheḷamāná úpa yāhi yajñáṃ túbhyaṃ pavante índavaḥ sutā́saḥ | gā́vo ná vajrin svám óko ácchéndrā́ gahi prathamó yajñíyānām ||
Without wrath, come near to the sacrifice; for you the pressed Soma-drops are flowing clear. Like cows to their own home, O wielder of the thunderbolt, come straight to us, Indra—first among those worthy of worship.
अहे॑ळमानः । उप॑ । या॒हि॒ । य॒ज्ञम् । तुभ्य॑म् । प॒व॒न्ते॒ । इन्द॑वः । सु॒तासः॑ । गावः॑ । न । वा॒ज्रि॒न् । स्वम् । ओकः॑ । अच्छ॑ । इन्द्र॑ । आ । ग॒हि॒ । प्र॒थ॒मः । य॒ज्ञिया॑नाम् ॥अहेळमानः । उप । याहि । यज्ञम् । तुभ्यम् । पवन्ते । इन्दवः । सुतासः । गावः । न । वाज्रिन् । स्वम् । ओकः । अच्छ । इन्द्र । आ । गहि । प्रथमः । यज्ञियानाम् ॥aheḷamānaḥ | upa | yāhi | yajñam | tubhyam | pavante | indavaḥ | sutāsaḥ | gāvaḥ | na | vājrin | svam | okaḥ | accha | indra | ā | gahi | prathamaḥ | yajñiyānām