Sukta 6.40
समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः । त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥
समि॑द्धे अ॒ग्नौ सु॒त इ॑न्द्र॒ सोम॒ आ त्वा॑ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः । त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या॑हि सुवि॒ताय॑ म॒हे न॑: ॥
sámiddhe agnáu sutá índra sóma ā́ tvā vahantu háryo váhiṣṭhāḥ | tvāyatā mánasā johavī́mī́ndra ā́ yāhi suvitā́ya mahé naḥ ||
When Agni is kindled and Soma is pressed, O Indra, let the most carrying bay steeds bring you. With a mind turned wholly to you I call you: come, Indra, for our great good passage and victorious progress.
सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒ते । इ॒न्द्र॒ । सोमे॑ । आ । त्वा॒ । व॒ह॒न्तु॒ । हर॑यः । वहि॑ष्ठाः । त्वा॒ऽय॒ता । मन॑सा । जो॒ह॒वी॒मि॒ । इन्द्र॑ । आ । या॒हि॒ । सु॒वि॒ताय॑ । म॒हे । नः॑ ॥सम्इद्धे । अग्नौ । सुते । इन्द्र । सोमे । आ । त्वा । वहन्तु । हरयः । वहिष्ठाः । त्वायता । मनसा । जोहवीमि । इन्द्र । आ । याहि । सुविताय । महे । नः ॥sam-iddhe | agnau | sute | indra | some | ā | tvā | vahantu | harayaḥ | vahiṣṭhāḥ | tvāyatā | manasā | johavīmi | indra | ā | yāhi | suvitāya | mahe | naḥ