Sukta 6.39
अयं रोचयदरुचो रुचानोऽयं वासयद्व्यृतेन पूर्वीः । अयमीयत ऋतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥
अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३॒॑ऽयं वा॑सय॒द्व्यृ१॒॑तेन॑ पू॒र्वीः । अ॒यमी॑यत ऋत॒युग्भि॒रश्वै॑: स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥
ayáṃ rocayad arúco rucānó ’ayáṃ vāsayad ví ṛ́tena pūrvī́ḥ | ayám īyate ṛtayúg-bhir áśvaiḥ svàr-vidā nā́bhinā carṣaṇi-prā́ḥ ||
He, shining, makes the unshining blaze; he spreads out by the Truth the ancient formations. He moves with horses yoked to the Ṛta; finding the Swar, he advances the peoples by the central navel (the inner seat of union).
अ॒यम् । रो॒च॒य॒त् । अ॒रुचः॑ । रु॒चा॒नः । अ॒यम् । वा॒स॒य॒त् । वि । ऋ॒तेन॑ । पू॒र्वीः । अ॒यम् । ई॒य॒ते॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । स्वः॒ऽविदा॑ । नाभि॑ना । च॒र्ष॒णि॒ऽप्राः ॥अयम् । रोचयत् । अरुचः । रुचानः । अयम् । वासयत् । वि । ऋतेन । पूर्वीः । अयम् । ईयते । ऋतयुक्भिः । अश्वैः । स्वःविदा । नाभिना । चर्षणिप्राः ॥ayam | rocayat | arucaḥ | rucānaḥ | ayam | vāsayat | vi | ṛtena | pūrvīḥ | ayam | īyate | ṛtayuk-bhiḥ | aśvaiḥ | svaḥ-vidā | nābhinā | carṣaṇi-prāḥ