Sukta 6.39
अयं द्योतयदद्युतो व्यक्तून्दोषा वस्तोः शरद इन्दुरिन्द्र । इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार ॥
अ॒यं द्यो॑तयद॒द्युतो॒ व्य१॒॑क्तून्दो॒षा वस्तो॑: श॒रद॒ इन्दु॑रिन्द्र । इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥
ayám dyótayad ádyuto ví aktū́n dóṣā vástōḥ śaráda índúr indra | imáṃ ketúm adadhuḥ nū́ cid áhnāṃ śúci-janmana uṣásaś cakāra ||
This radiant one illumines the nights—night and dawn and the seasons—O Indu, O Indra. This beacon the days have set in place; and the Dawn, pure-born, has fashioned it.
अ॒यम् । द्यो॒त॒य॒त् । अ॒द्युतः॑ । वि । अ॒क्तून् । दो॒षा । वस्तोः॑ । श॒रदः॑ । इन्दुः॑ । इ॒न्द्र॒ । इ॒मम् । के॒तुम् । अ॒द॒धुः॒ । नु । चि॒त् । अह्ना॑म् । शुचि॑ऽजन्मनः । उ॒षसः॑ । च॒का॒र॒ ॥अयम् । द्योतयत् । अद्युतः । वि । अक्तून् । दोषा । वस्तोः । शरदः । इन्दुः । इन्द्र । इमम् । केतुम् । अदधुः । नु । चित् । अह्नाम् । शुचिजन्मनः । उषसः । चकार ॥ayam | dyotayat | adyutaḥ | vi | aktūn | doṣā | vastoḥ | śaradaḥ | induḥ | indra | imam | ketum | adadhuḥ | nu | cit | ahnām | śuci-janmanaḥ | uṣasaḥ | cakāra