Sukta 6.39
अयमुशानः पर्यद्रिमुस्रा ऋतधीतिभिॠतयुग्युजानः । रुजदरुग्णं वि वलस्य सानुं पणीँर्वचोभिरभि योधदिन्द्रः ॥
अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिॠत॒युग्यु॑जा॒नः । रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिन्द्र॑: ॥
ayám uśānáḥ páry ádrim usrā́ ṛtádhītibhī ṛtáyug yujānáḥ | rujád arúgṇaṃ ví válasya sā́nuṃ paṇī́n váco-bhir abhí yódhad índraḥ ||
This Indra, desiring, harnessed to the Truth, with truth-visions moved around the stone and brought forth the shining rays. He broke the unbroken ridge of Vala’s enclosure; with the power of the word he fought against the Paṇis.
अ॒यम् । उ॒शा॒नः । परि॑ । अद्रि॑म् । उ॒स्राः । ऋ॒तधी॑तिऽभिः । ऋ॒त॒ऽयुक् । यु॒जा॒नः । रु॒जत् । अरु॑ग्णम् । वि । व॒लस्य॑ । सानु॑म् । प॒णीन् । वचः॑ऽभिः । अ॒भि । यो॒ध॒त् । इन्द्रः॑ ॥अयम् । उशानः । परि । अद्रिम् । उस्राः । ऋतधीतिभिः । ऋतयुक् । युजानः । रुजत् । अरुग्णम् । वि । वलस्य । सानुम् । पणीन् । वचःभिः । अभि । योधत् । इन्द्रः ॥ayam | uśānaḥ | pari | adrim | usrāḥ | ṛtadhīti-bhiḥ | ṛta-yuk | yujānaḥ | rujayt | arugṇam | vi | valasya | sānum | paṇīn | vacaḥ-bhiḥ | abhi | yodhat | indraḥ