Sukta 6.39
मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः । अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥
म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्व॑: । अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥
mandrásya kavér divyásya váhner viprámanmano vacanásya mádhvaḥ | apā́ naḥ tásya sacanásya deva íṣo yuvasva gṛṇaté go-agrāḥ ||
O god, foster for us the inspirations of that harmonious seer, the divine bearer—of his honeyed word that is filled with luminous mind. For the singer who praises, increase the powers of that companionship, with the rays of light in the forefront.
म॒न्द्रस्य॑ । क॒वेः । दि॒व्यस्य॑ । वह्नेः॑ । विप्र॑ऽमन्मनः । व॒च॒नस्य॑ । मध्वः॑ । अपाः॑ । नः॒ । तस्य॑ । स॒च॒नस्य॑ । दे॒व॒ । इषः॑ । यु॒व॒स्व॒ । गृ॒ण॒ते । गोऽअ॑ग्राः ॥मन्द्रस्य । कवेः । दिव्यस्य । वह्नेः । विप्रमन्मनः । वचनस्य । मध्वः । अपाः । नः । तस्य । सचनस्य । देव । इषः । युवस्व । गृणते । गोअग्राः ॥mandrasya | kaveḥ | divyasya | vahneḥ | vipra-manmanaḥ | vacanasya | madhvaḥ | apa | naḥ | tasya | sacanasya | deva | iṣaḥ | yuvasva | gṛṇate | go--agrāḥ