Sukta 6.38
वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म । वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम् ॥
वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ । वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासा॑: श॒रदो॒ द्याव॒ इन्द्र॑म् ॥
várdhād yáṃ yajñá utá sóma índraṃ várdhād bráhma gíra ukthā́ ca mánma | várdhāhá enam uṣáso yā́mann aktór várdhān mā́sāḥ śarádo dyā́va índram ||
He whom the sacrifice increases, and Soma increases—Indra; whom the sacred formulation increases, the inspired words, the recitations and the thought. The Dawns increase him in their going, and the Nights; the Months increase him, the Seasons, the Heavens—Indra.
वर्धा॑त् । यम् । य॒ज्ञः । उ॒त । सोमः॑ । इन्द्र॑म् । वर्धा॑त् । ब्रह्म॑ । गिरः॑ । उ॒क्था । च॒ । मन्म॑ । वर्ध॑ । अह॑ । ए॒न॒म् । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वर्धा॑न् । मासाः॑ । श॒रदः॑ । द्यावः॑ । इन्द्र॑म् ॥वर्धात् । यम् । यज्ञः । उत । सोमः । इन्द्रम् । वर्धात् । ब्रह्म । गिरः । उक्था । च । मन्म । वर्ध । अह । एनम् । उषसः । यामन् । अक्तोः । वर्धान् । मासाः । शरदः । द्यावः । इन्द्रम् ॥vardhāt | yam | yajñaḥ | uta | somaḥ | indram | vardhāt | brahma | giraḥ | ukthā | ca | manma | vardha | aha | enam | uṣasaḥ | yāman | aktoḥ | vardhān | māsāḥ | śaradaḥ | dyāvaḥ | indram