Sukta 6.38
तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः । ब्रह्मा च गिरो दधिरे समस्मिन्महाँश्च स्तोमो अधि वर्धदिन्द्रे ॥
तं वो॑ धि॒या प॑र॒मया॑ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः । ब्रह्मा॑ च॒ गिरो॑ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिन्द्रे॑ ॥
táṃ vo dhiyā́ paramáyā purājā́m ájaram índram abhý anūṣy arkáiḥ | bráhmā ca gíro dadhiré sám asmin mahā́ṃś ca stómo ádhi vardhad índre ||
Him—Indra, ancient-born, ageless—we pursue and press toward with the supreme vision-thought, with our chants. In him the sacred formulation and the inspired words are set together; and a great hymn of affirmation grows upon Indra.
तम् । वः॒ । धि॒या । प॒र॒मया॑ । पु॒रा॒ऽजाम् । अ॒जर॑म् । इन्द्र॑म् । अ॒भि । अ॒नू॒षि॒ । अ॒र्कैः । ब्रह्म॑ । च॒ । गिरः॑ । द॒धि॒रे । सम् । अ॒स्मि॒न् । म॒हान् । च॒ । स्तोमः॑ । अधि॑ । व॒र्ध॒त् । इन्द्रे॑ ॥तम् । वः । धिया । परमया । पुराजाम् । अजरम् । इन्द्रम् । अभि । अनूषि । अर्कैः । ब्रह्म । च । गिरः । दधिरे । सम् । अस्मिन् । महान् । च । स्तोमः । अधि । वर्धत् । इन्द्रे ॥tam | vaḥ | dhiyā | paramayā | purājām | ajaram | indram | abhi | anūṣi | arkaiḥ | brahma | ca | giraḥ | dadhire | sam | asmin | mahān | ca | stomaḥ | adhi | vardhat | indre