Sukta 6.38
दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः । एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिन्द्रमियमृच्यमाना ॥
दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः । एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिन्द्र॑मि॒यमृ॒च्यमा॑ना ॥
dūrā́c cid ā́ vasato asya kárṇā ghoṣā́d índrasya tanyati bruvāṇáḥ | éyam enaṃ deváhūtír vavṛtyān madryàg índram iyám ṛcyámānā ||
Even from far away, as he dwells there, his ears are made to resound by the call of Indra, as the word speaks. Let this god-summoning invocation turn him here toward us—this hymn, being chanted, draws Indra near in the right direction.
दू॒रात् । चि॒त् । आ । व॒स॒तः॒ । अ॒स्य॒ । कर्णा॑ । घोषा॑त् । इन्द्र॑स्य । त॒न्य॒ति॒ । ब्रु॒वा॒णः । आ । इ॒यम् । ए॒न॒म् । दे॒वऽहू॑तिः । व॒वृ॒त्या॒त् । म॒द्र्य॑क् । इन्द्र॑म् । इ॒यम् । ऋ॒च्यमा॑ना ॥दूरात् । चित् । आ । वसतः । अस्य । कर्णा । घोषात् । इन्द्रस्य । तन्यति । ब्रुवाणः । आ । इयम् । एनम् । देवहूतिः । ववृत्यात् । मद्र्यक् । इन्द्रम् । इयम् । ऋच्यमाना ॥dūrāt | cit | ā | vasataḥ | asya | karṇā | ghoṣāt | indrasya | tanyati | bruvāṇaḥ | ā | iyam | enam | deva-hūtiḥ | vavṛtyāt | madryak | indram | iyam | ṛcyamānā